Sukta 9.100
क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥
क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥
krátve dákṣāya naḥ kave páv asva soma dhā́rayā | índrāya pātáve sutó mitrā́ya váruṇāya ca ||
For our will and our discerning power, O seer, flow purified, O Soma, in a stream—pressed out to be drunk by Indra, and also for Mitra and Varuṇa.
क्रत्वे॑ । दक्षा॑य । नः॒ । क॒वे॒ । पव॑स्व । सो॒म॒ । धार॑या । इन्द्रा॑य । पात॑वे । सु॒तः । मि॒त्राय॑ । वरु॑णाय । च॒ ॥क्रत्वे । दक्षाय । नः । कवे । पवस्व । सोम । धारया । इन्द्राय । पातवे । सुतः । मित्राय । वरुणाय । च ॥kratve | dakṣāya | naḥ | kave | pavasva | soma | dhārayā | indrāya | pātave | sutaḥ | mitrāya | varuṇāya | ca