Sukta 9.100
परि ते जिग्युषो यथा धारा सुतस्य धावति । रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥
परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति । रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥
pári te jigyúṣo yáthā dhā́rā sutásya dhāvati | ráṃhamāṇā ví avyáyaṃ vā́raṃ vājī́va sānásih ||
As for the victorious one, your pressed stream runs all around; rushing on, it passes through the imperishable woolen filter, like a strong steed winning the prize.
परि॑ । ते॒ । जि॒ग्युषः॑ । यथा॑ । धारा॑ । सु॒तस्य॑ । धा॒व॒ति॒ । रंह॑माणा । वि । अ॒व्यय॑म् । वार॑म् । वा॒जीऽइ॑व । सा॒न॒सिः ॥परि । ते । जिग्युषः । यथा । धारा । सुतस्य । धावति । रंहमाणा । वि । अव्ययम् । वारम् । वाजीइव । सानसिः ॥pari | te | jigyuṣaḥ | yathā | dhārā | sutasya | dhāvati | raṃhamāṇā | vi | avyayam | vāram | vājī-iva | sānasiḥ