Sukta 9.100
त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः । त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥
त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः । त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥
tváṃ dhíyaṃ manoyújaṃ sṛjá vṛ́ṣṭiṃ na tanyatúḥ | tváṃ vasū́ni pārthívā divyā́ ca soma puṣyasi ||
You release the thought that is yoked to the mind, as thunder releases the rain; you make thrive the treasures of earth and also those of heaven, O Soma.
त्वम् । धिय॑म् । म॒नः॒ऽयुज॑म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः । त्वम् । वसू॑नि । पार्थि॑वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥त्वम् । धियम् । मनःयुजम् । सृज । वृष्टिम् । न । तन्यतुः । त्वम् । वसूनि । पार्थिवा । दिव्या । च । सोम । पुष्यसि ॥tvam | dhiyam | manaḥ-yujam | sṛja | vṛṣṭim | na | tanyatuḥ | tvam | vasūni | pārthivā | divyā | ca | soma | puṣyasi