Sukta 9.1
अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् । सोममिन्द्राय पातवे ॥
अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नव॒: शिशु॑म् । सोम॒मिन्द्रा॑य॒ पात॑वे ॥
abhī́m amághnyā utá śrīṇánti dhenávaḥ śíśum | sómam índrāya pātáve ||
Around him the unharmable cows, the nourishing streams, mix and enrich the child—this Soma—for Indra to drink: the rays of knowledge feed the growing delight until the lord of power can take it fully.
अ॒भि । इ॒मम् । अघ्न्याः॑ । उ॒त । श्री॒णन्ति॑ । धे॒नवः॑ । शिशु॑म् । सोम॑म् । इन्द्रा॑य । पात॑वे ॥अभि । इमम् । अघ्न्याः । उत । श्रीणन्ति । धेनवः । शिशुम् । सोमम् । इन्द्राय । पातवे ॥abhi | imam | aghnyāḥ | uta | śrīṇanti | dhenavaḥ | śiśum | somam | indrāya | pātave