Sukta 9.1
अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते । शूरो मघा च मंहते ॥
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते । शूरो॑ म॒घा च॑ मंहते ॥
asyéd índro mádeṣv ā́ viśvā́ vṛtrā́ṇi jighnate | śū́ro maghā́ ca maṃhate ||
By this Soma’s ecstasies Indra indeed smites all obstructions; the Hero grows in might and in bounties—power and plenitude increasing together when delight is purified and received.
अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । विश्वा॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ । शूरः॑ । म॒घा । च॒ । मं॒ह॒ते॒ ॥अस्य । इत् । इन्द्रः । मदेषु । आ । विश्वा । वृत्राणि । जिघ्नते । शूरः । मघा । च । मंहते ॥asya | it | indraḥ | madeṣu | ā | viśvā | vṛtrāṇi | jighnate | śūraḥ | maghā | ca | maṃhate