Sukta 8.99
इत ऊती वो अजरं प्रहेतारमप्रहितम् । आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥
इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् । आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥
itá ūtī́ vo ajáraṃ prahetā́ram áprahitam | āśúṃ jétāraṃ hétāraṃ rathī́tamam átūrtam tugryā́vṛdham ||
From here we call for your help—Indra, the undecaying impeller, unthwarted; swift victor, smiter, most chariot-mighty, unconquered, increaser of the onward-rushing force.
इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् । आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥इतः । ऊती । वः । अजरम् । प्रहेतारम् । अप्रहितम् । आशुम् । जेतारम् । हेतारम् । रथितमम् । अतूर्तम् । तुग्र्यवृधम् ॥itaḥ | ūtī | vaḥ | ajaram | pra-hetāram | apra-hitam | āśum | jetāram | hetāram | rathi-tamam | atūrtam | tugrya-vṛdham