Sukta 8.99
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृध॑: श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥
ánu te śúṣmaṃ turáyantam īyatuḥ kṣoṇī́ śíśuṃ ná mātarā́ | víśvāste spṛ́dhaḥ śnathayanta mányave vṛtráṃ yád indra tū́rvasi ||
Following your rushing might, the two worlds move as two mothers after a child. All the opposing pressures are shattered for your wrathful force, when you, O Indra, overpower Vṛtra.
अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ । विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणी इति । शिशुम् । न । मातरा । विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥anu | te | śuṣmam | turayantam | īyatuḥ | kṣoṇī iti | śiśum | na | mātarā | viśvāḥ | te | spṛdhaḥ | śnathayanta | manyave | vṛtram | yat | indra | tūrvasi