Sukta 8.99
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥
त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑: । अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥
tvám indra pratū́rtiṣv abhí víśvā asi spṛ́dhaḥ | aśastihā́ janitā́ viśvatū́r asi tváṃ tū́rya taruṣyatáḥ ||
You, O Indra, in the forward rushes are the conqueror against all assailing resistances; slayer of the ill-speaking negation, creator and all-overcoming, you are the victorious helper of the one who strives to cross beyond.
त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वाः॑ । अ॒सि॒ । स्पृधः॑ । अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥त्वम् । इन्द्र । प्रतूर्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्तिहा । जनिता । विश्वतूः । असि । त्वम् । तूर्य । तरुष्यतः ॥tvam | indra | pra-tūrtiṣu | abhi | viśvāḥ | asi | spṛdhaḥ | aśasti-hā | janitā | vi śva-tūḥ | asi | tvam | tūrya | taruṣyataḥ