Sukta 8.99
अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥
अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तय॑: । सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥
ánarśarātiṃ vasudā́m úpa stuhi bhadrā́ índrasya rātáyaḥ | só asya kā́maṃ vidható ná roṣati máno dānā́ya codáyan ||
Praise near the Giver of riches whose giving does not fail; auspicious are Indra’s bestowals. He is not angered with the worshipper who orders his will rightly, urging the mind forward toward the act of giving.
अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ । सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥अनर्शरातिम् । वसुदाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । सः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥anarśa-rātim | vasu-dām | upa | stuhi | bhadrāḥ | indrasya | rātayaḥ | saḥ | asya | kāmam | vidhataḥ | na | roṣati | manaḥ | dānāya | codayan