Sukta 8.99
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत । वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥
śrā́yanta iva sū́ryaṃ víśved índrasya bhakṣata | vasū́ni jāte jánamāna ójasā práti bhāgáṃ ná dīdhima ||
As if leaning toward the Sun, may all powers partake of Indra’s nourishment; and may we, by the strength that is born and ever being born, hold fast our rightful share of the luminous riches.
श्राय॑न्तःऽइव । सूर्य॑म् । विश्वा॑ । इत् । इन्द्र॑स्य । भ॒क्ष॒त॒ । वसू॑नि । जा॒ते । जन॑माने । ओज॑सा । प्रति॑ । भा॒गम् । न । दी॒धि॒म॒ ॥श्रायन्तःइव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जाते । जनमाने । ओजसा । प्रति । भागम् । न । दीधिम ॥śrāyantaḥ-iva | sūryam | viśvā | it | indrasya | bhakṣata | vasūni | jāte | janamāne | ojasā | prati | bhāgam | na | dīdhima