Sukta 8.99
मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः । तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥
मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धस॑: । तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥
mátsvā suśipra harivas tád īmahe tvé ā́ bhūṣanti védhasaḥ | táva śrávāṃsy upamā́ny ukthyā́ sutéṣv indra girvaṇaḥ ||
Rejoice in ecstasy, O fair-lipped one, O lord of the tawny steeds; that we seek—upon thee the wise set their adorning thought. Thy glories, worthy of proclamation, are uplifted in the pressed Soma, O Indra, delighting in the hymn.
मत्स्व॑ । सु॒ऽशि॒प्र॒ । ह॒रि॒ऽवः॒ । तत् । ई॒म॒हे॒ । त्वे इति॑ । आ । भू॒ष॒न्ति॒ । वे॒धसः॑ । तव॑ । श्रवां॑सि । उ॒प॒ऽमानि॑ । उ॒क्थ्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥मत्स्व । सुशिप्र । हरिवः । तत् । ईमहे । त्वे इति । आ । भूषन्ति । वेधसः । तव । श्रवांसि । उपमानि । उक्थ्या । सुतेषु । इन्द्र । गिर्वणः ॥matsva | su-śipra | hari-vaḥ | tat | īmahe | tve iti | ā | bhūṣanti | vedhasaḥ | tava | śravāṃsi | upa-māni | ukthyā | suteṣu | indra | girvaṇaḥ