Sukta 8.99
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥
त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः । स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥
tvā́m idā́ hyó naro ’pī́pyan vajrin bhū́rṇayaḥ | sá indrā stóma-vāhasām ihá śrudhí úpa svasarám ā́ gahi ||
Even yesterday the men, O wielder of the thunderbolt, made thee increase in delight and power. Therefore, O Indra, hearken here to those who bear the hymns and come near to the call, come hither.
त्वाम् । इ॒दा । ह्यः । नरः॑ । अपी॑प्यन् । व॒ज्रि॒न् । भूर्ण॑यः । सः । इ॒न्द्र॒ । स्तोम॑ऽवाहसाम् । इ॒ह । श्रु॒धि॒ । उप॑ । स्वस॑रम् । आ । ग॒हि॒ ॥त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः । सः । इन्द्र । स्तोमवाहसाम् । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥tvām | idā | hyaḥ | naraḥ | apīpyan | vajrin | bhūrṇayaḥ | saḥ | indra | stoma-vāhasām | iha | śrudhi | upa | svasaram | ā | gahi