Sukta 8.98
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । इन्द्रवाहा वचोयुजा ॥
यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे । इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥
yuñjánti hárī iṣirásya gā́thayor áu rátha urúyuge | indrāvā́hā vacoyújā ||
They yoke the two tawny steeds for the impetuous one, for the two chants, on the wide car with the wide yoke—those that bring Indra, yoked by the word.
यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रुऽयु॑गे । इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥युञ्जन्ति । हरी इति । इषिरस्य । गाथया । उरौ । रथे । उरुयुगे । इन्द्रवाहा । वचःयुजा ॥yuñjanti | harī iti | iṣirasya | gāthayā | urau | rathe | uru-yuge | indra-vāhā | vacaḥ-yujā