Sukta 8.98
त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे । आ वीरं पृतनाषहम् ॥
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे । आ वी॒रं पृ॑तना॒षह॑म् ॥
tváṃ na indrā́ bharaṃ ójo nṛmṇáṃ śatakrato vicarṣaṇe | ā́ vīráṃ pṛtanāṣáham ||
Bring to us, O Indra, force and the plenitude of manly power, O hundred-skilled, O seer among men; bring a hero who overcomes the battles.
त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ । आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो इति शतक्रतो । विचर्षणे । आ । वीरम् । पृतनासहम् ॥tvam | naḥ | indra | ā | bhara | ojaḥ | nṛmṇam | śatakrato itiśata-krato | vi-carṣaṇe | ā | vīram | pṛtanāsaham