Sukta 8.98
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि । वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥
vā́rṇa tvā yavyā́bhir várdhanti śūra bráhmāṇi | vāvṛdhvā́ṃsaṃ cid adrivo divé-dive ||
By the fresh and youthful forces, O hero, the mantras increase thee; even thee who art ever-growing, O wielder of the stone, day by day in the luminous realm.
वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि । व॒वृ॒ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥वाः । न । त्वा । यव्याभिः । वर्धन्ति । शूर । ब्रह्माणि । ववृध्वांसम् । चित् । अद्रिवः । दिवेदिवे ॥vāḥ | na | tvā | yavyābhiḥ | vardhanti | śūra | brahmāṇi | vavṛdhvāṃsam | cit | adri--vaḥ | dive--dive