Sukta 8.98
अभि हि सत्य सोमपा उभे बभूथ रोदसी । इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥
अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी । इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
abhí hí satyá somapā ubhé babhū́tha ródasī | indrā́si sunvató vṛdháḥ pátir diváḥ ||
For indeed, O true Soma-drinker, thou hast become master over both the worlds, Heaven and Earth. O Indra, thou art the increaser of him who presses the Soma; a lord of the luminous heights.
अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ । इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥अभि । हि । सत्य । सोमपाः । उभे इति । बभूथ । रोदसी इति । इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥abhi | hi | satya | soma-pāḥ | ubhe iti | babhūtha | rodasī iti | indra | asi | sunvataḥ | vṛdhaḥ | patiḥ | divaḥ