Sukta 8.98
एन्द्र नो गधि प्रियः सत्राजिदगोह्यः । गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥
एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः । गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥
ā́ indra no gádhi priyáḥ satrā́-jid ágohyaḥ | girír na viśvátas pṛthúḥ pátir diváḥ ||
Come, Indra, be with us as the beloved—victor in all battles, not to be hidden away. Like a mountain broad on every side, be the lord of heaven who supports and shelters our ascent.
आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः । गि॒रिः । न । वि॒श्वतः॑ । पृ॒थुः । पतिः॑ । दि॒वः ॥आ । इन्द्र । नः । गधि । प्रियः । सत्राजित् । अगोह्यः । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥ā | indra | naḥ | gadhi | priyaḥ | satrājit | agohyaḥ | giriḥ | na | viśvataḥ | pṛthuḥ | patiḥ | divaḥ