Sukta 8.98
विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः । देवास्त इन्द्र सख्याय येमिरे ॥
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥
vi-bhrā́jan jyótiṣā svàr agaccho rocanáṃ diváḥ | devā́s ta indra sakhyā́ya yemire ||
Shining forth with light, you have gone to the luminous world of heaven; the gods, O Indra, have bound themselves to you in comradeship—powers consenting to the victorious leader.
वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः । दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥विभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । देवाः । ते । इन्द्र । सख्याय । येमिरे ॥vi-bhrājan | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ | devāḥ | te | indra | sakhyāya | yemire