Sukta 8.98
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । अधा ते सुम्नमीमहे ॥
त्वं हि न॑: पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ । अधा॑ ते सु॒म्नमी॑महे ॥
tváṃ hí naḥ pitā́ vaso tváṃ mātā́ śatakrato babhū́vitha | adhā́ te sumnám īmahe ||
For thou hast become for us a father, O good one, and thou a mother, O hundred-skilled; therefore we seek thy grace and happy beneficence.
त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । म॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥त्वम् । हि । नः । पिता । वसो इति । त्वम् । मता । शतक्रतो इति शतक्रतो । बभूविथ । अध । ते । सुम्नम् । ईमहे ॥tvam | hi | naḥ | pitā | vaso iti | tvam | matā | śatakrato itiśata-krato | babhūvitha | adha | te | sumnam | īmahe