Sukta 8.98
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो । स नो रास्व सुवीर्यम् ॥
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो । स नो॑ रास्व सु॒वीर्य॑म् ॥
tvā́ṃ śuṣmín puruhūta vājáyantam úpa bruve śatakrato | sá no rāsva suvī́ryam ||
Thee, O mighty one, O much-invoked, advancing the plenitude of force, I approach with my word, O hundred-skilled. Do thou give to us the good heroism.
त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒यन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥त्वाम् । शुष्मिन् । पुरुहूत । वाजयन्तम् । उप । ब्रुवे । शतक्रतो इति शतक्रतो । सः । नः । रास्व । सुवीर्यम् ॥tvām | śuṣmin | puru-hūta | vājayantam | upa | bruve | śatakrato itiśata-krato | saḥ | naḥ | rāsva | su-vīryam