Sukta 8.97
स नः सोमेषु सोमपाः सुतेषु शवसस्पते । मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥
स न॒: सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते । मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥
sá naḥ sómeṣu soma-pāḥ sutéṣu śavasaḥ pate | mā́dayasva rā́dhasā sūnṛtā́vaténdra rāyā́ parīṇásā ||
So, for us, in the Soma offerings—O Soma-drinker, lord of force—become intoxicated with your giving; O Indra, by truth-speaking fullness and by the plenitude of being, gladden and strengthen us.
सः । नः॒ । सोमे॑षु । सो॒म॒ऽपाः॒ । सु॒तेषु॑ । श॒व॒सः॒ । प॒ते॒ । मा॒दय॑स्व । राध॑सा । सू॒नृता॑ऽवता । इन्द्र॑ । रा॒या । परी॑णसा ॥सः । नः । सोमेषु । सोमपाः । सुतेषु । शवसः । पते । मादयस्व । राधसा । सूनृतावता । इन्द्र । राया । परीणसा ॥saḥ | naḥ | someṣu | soma-pāḥ | suteṣu | śavasaḥ | pate | mādayasva | rādhasā | sūnṛtāvatā | indra | rāyā | parīṇasā