Sukta 8.97
यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि । यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥
यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ । यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥
yád vā́si rocané diváḥ samudrásyādhi viṣṭápi | yát pārthivé sádane vṛtrahan-tama yád antárikṣe ā́ gahi ||
Whether you abide in the shining realm of heaven, or on the summit above the ocean of being, or in the earthly seat, O most Vṛtra-slaying—whether in the mid-region: come here.
यत् । वा॒ । असि॑ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । यत् । पार्थि॑वे । सद॑ने । वृ॒त्र॒ह॒न्ऽत॒म॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒हि॒ ॥यत् । वा । असि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि । यत् । पार्थिवे । सदने । वृत्रहन्तम । यत् । अन्तरिक्षे । आ । गहि ॥yat | vā | asi | rocane | divaḥ | samudrasya | adhi | viṣṭapi | yat | pārthive | sadane | vṛtrahan-tama | yat | antarikṣe | ā | gahi