Sukta 8.97
यच्छक्रासि परावति यदर्वावति वृत्रहन् । अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाँ आ विवासति ॥
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् । अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभि॑: सु॒तावाँ॒ आ वि॑वासति ॥
yác chakrā́si parāváti yád arvāváti vṛtra-han | átás tvā gīrbhír dyugád indra keśíbhiḥ sutā́vān ā́ vivāsati ||
Whether you are in the far region or in the nearer, O Vṛtra-slayer—therefore the Soma-presser, with luminous-hair-like rays of speech, calls you here and makes you present through the hymns.
यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् । अतः॑ । त्वा॒ । गीः॒ऽभिः । द्यु॒ऽगत् । इ॒न्द्र॒ । के॒शिऽभिः॑ । सु॒तऽवा॑न् । आ । वि॒वा॒स॒ति॒ ॥यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्रहन् । अतः । त्वा । गीःभिः । द्युगत् । इन्द्र । केशिभिः । सुतवान् । आ । विवासति ॥yat | śakra | asi | parāvati | yat | arvāvati | vṛtra-han | ataḥ | tvā | gīḥ-bhi ḥ | dyu-gat | indra | keśi-bhiḥ | suta-vān | ā | vivāsati