Sukta 8.97
त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै । त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥
त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
tváṃ púra indra cikidé nā́ vy ójasā śaviṣṭha śakra nāśáyadhyai | tvád víśvāni bhúvanāni vajrin dyā́vā rejete pṛthivī́ ca bhīṣā́ ||
You, Indra, perceive the ancient fronts and by your force you scatter the wrong; O most mighty, O Shakra, to destroy the hostile. From you all worlds take their law: Heaven and Earth tremble in awe before the wielder of the thunder-force.
त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । स॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ । त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओजसा । सविष्ठ । शक्र । नाशयध्यै । त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेते इति । पृथिवी इति । च । भीषा ॥tvam | puraḥ | indra | cikit | enāḥ | vi | ojasā | saviṣṭha | śakra | nāśayadhyai | tvat | viśvāni | bhuvanāni | vajrin | dyāvā | rejeteiti | pṛthivī iti | ca | bhīṣā