Sukta 8.97
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि । मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥
तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि । मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
tám índraṃ johavīmi maghávānam ugráṃ satrā́ dádhānam áprati-skutaṃ śávāṃsi | maṃhíṣṭho gī́r-bhir ā́ ca yajñíyo vávartad rā́ye no víśvā su-páthā kṛṇotu vajrī́ ||
That Indra I call again and again—bountiful, formidable—who holds his strengths always and cannot be turned back. May the most generous, worthy of sacrifice, come by our words; may the wielder of the thunder-force make all paths for our increase in being straight and luminous.
तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि । मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥तम् । इन्द्रम् । जोहवीमि । मघवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिस्कुतम् । शवांसि । मंहिष्ठः । गीःभिः । आ । च । यज्ञियः । ववर्तत् । राये । नः । विश्वा । सुपथा । कृणोतु । वज्री ॥tam | indram | johavīmi | magha-vānam | ugram | satrā | dadhānam | aprati-skutam | śavāṃsi | maṃhiṣṭhaḥ | gīḥ-bhiḥ | ā | ca | yajñiyaḥ | vavartat | rāye | naḥ | v iśvā | su-pathā | kṛṇotu | vajrī