Sukta 8.97
तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि । कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥
तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ । क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥
tán ma ṛtám indra śūra citra pātv apó ná vajrin duritā́ti párṣi bhū́ri | kadā́ na indra rāyá ā́ daśasyeḥ viśvá-psnyasya spṛhayā́yyasya rājan ||
Let that Truth-Order guard me, O Indra—hero, wondrous one; like waters, O Vajrin, carry me far beyond the difficult wrongs. When will you grant us the fullness of being—universal in its outpouring, desirable and to be longed for—O King?
तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । भूरि॑ । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्वऽप्स्न्य॑स्य । स्पृ॒ह॒याय्य॑स्य । रा॒ज॒न् ॥तत् । मा । ऋतम् । इन्द्र । शूर । चित्र । पातु । अपः । न । वज्रिन् । दुःइता । अति । पर्षि । भूरि । कदा । नः । इन्द्र । रायः । आ । दशस्येः । विश्वप्स्न्यस्य । स्पृहयाय्यस्य । राजन् ॥tat | mā | ṛtam | indra | śūra | citra | pātu | apaḥ | na | vajrin | duḥ-itā | ati | parṣ i | bhūri | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ | viśva-psnyasya | spṛhayāyyasya | rājan