Sukta 8.97
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ । सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒: समृक्व॑भिः ॥
némim namanti cákṣasā meṣáṃ víprā abhí-svarā | su-dītáyo vo adrúho ’pí kárṇe tarásvinaḥ sám ṛkvá-bhiḥ ||
The seers with vision bow the rim (the turning limit) toward the Ram, sounding their chant; bright-flamed and without hostility, may your swift-overcoming ones, with their hymns, enter even into the ear—so the hearing becomes a gate for the force.
ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्राः॑ । अ॒भि॒ऽस्वरा॑ । सु॒ऽदी॒तयः॑ । वः॒ । अ॒द्रुहः॑ । अपि॑ । कर्णे॑ । त॒र॒स्विनः॑ । सम् । ऋक्व॑ऽभिः ॥नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । अभिस्वरा । सुदीतयः । वः । अद्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वभिः ॥nemim | namanti | cakṣasā | meṣam | viprāḥ | abhi-svarā | su-dītayaḥ | vaḥ | adruhaḥ | api | karṇe | tarasvinaḥ | sam | ṛkva-bhiḥ