Sukta 8.97
समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये । स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ । स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभि॑: ॥
sam ī́ṃ rebhā́so asvaran índraṃ sómasya pītáye | svàr-patiṃ yád īṃ vṛdhé dhṛtá-vrato hí ójasā sám ūtí-bhiḥ ||
The illumined singers rose together in their cry to Indra for the drinking of Soma—Lord of the Light-world—when, firm in his law of action, he grows by energy and gathers to himself the plenitudes of help.
सम् । ई॒म् । रे॒भासः॑ । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्वः॑ऽपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑तः । हि । ओज॑सा । सम् । ऊ॒तिऽभिः॑ ॥सम् । ईम् । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वःपतिम् । यत् । ईम् । वृधे । धृतव्रतः । हि । ओजसा । सम् । ऊतिभिः ॥sam | īm | rebhāsaḥ | asvaran | indram | somasya | pītaye | svaḥ-patim | yat | īm | vṛdhe | dhṛta-vrataḥ | hi | ojasā | sam | ūti-bhiḥ