Sukta 8.97
विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
विश्वा॒: पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ । क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
viśvā́ḥ pṛ́tanā abhí-bhū́taram náraṃ sa-jū́s tatakṣúr índraṃ jajánuś ca rājáse | kratvā́ váriṣṭhaṃ vára āmúrim utógram ójiṣṭhaṃ tavásaṃ tarásvinam ||
All the battles, joining together in one movement, have shaped and brought forth Indra—the conquering Man—for sovereign rule: most excellent in will (kratu), choicest in the supreme choosing, irresistible in onset, and the fierce, most forceful, mighty bearer of victorious momentum.
विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ । क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥विश्वाः । पृतनाः । अभिभूतरम् । नरम् । सजूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे । क्रत्वा । वरिष्ठम् । वरे । आमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥viśvāḥ | pṛtanāḥ | abhi-bhūtaram | naram | sa-jūḥ | tatakṣuḥ | indram | jajanuḥ | ca | rājase | kratvā | variṣṭham | vare | āmurim | uta | ugram | ojiṣṭham | tavasam | tarasvinam