Sukta 8.97
न त्वा देवास आशत न मर्त्यासो अद्रिवः । विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥
न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः । विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥
ná tvā devā́sa ā́śata ná martyā́so adrivaḥ | víśvā jātā́ni śávasābhí-bhūr asi ná tvā devā́sa ā́śata ||
Neither the gods reach you, nor do mortals, O wielder of the stone; by your force you overmaster all that is born. Neither the gods reach you.
न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ । न । मर्त्या॑सः । अ॒द्रि॒ऽवः॒ । विश्वा॑ । जा॒तानि॑ । शव॑सा । अ॒भि॒ऽभूः । अ॒सि॒ । न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ ॥न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रिवः । विश्वा । जातानि । शवसा । अभिभूः । असि । न । त्वा । देवासः । आशत ॥na | tvā | devāsaḥ | āśata | na | martyāsaḥ | adri-vaḥ | viśvā | jātāni | śavasā | abhi-bhūḥ | asi | na | tvā | devāsaḥ | āśata