Sukta 8.96
त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥
त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः । उप॒ त्वेम॑: कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥
tríḥ ṣaṣṭís tvā marúto vāvṛdhānā usrā́ iva rāśáyo yajñíyāsaḥ | úpa tv émāḥ kṛdhí no bhā́ga-dhéyaṃ śúṣmaṃ ta enā́ havíṣā vidhema ||
Thrice sixty the Maruts, growing in strength, increase you—like bright herds, like heaped riches, worthy of sacrifice. Come near; make for us our rightful share: with this offering we would build up your force of ardour.
त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः । उप॑ । त्वा॒ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥त्रिः । षष्टिः । त्वा । मरुतः । ववृधानाः । उस्राःइव । राशयः । यज्ञियासः । उप । त्वा । इमः । कृधि । नः । भागधेयम् । शुष्मम् । ते । एना । हविषा । विधेम ॥triḥ | ṣaṣṭiḥ | tvā | marutaḥ | vavṛdhānāḥ | usrāḥ-iva | rāśayaḥ | yajñiyāsaḥ | upa | tvā | imaḥ | kṛdhi | naḥ | bhāga-dheyam | śuṣmam | te | enā | haviṣā | vidhema