Sukta 8.96
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥
वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒: पृत॑ना जयासि ॥
vṛ́trasya tvā śvasáthād ī́ṣamāṇā víśve devā́ ajahur yé sakhā́yaḥ | marúdbhir indra sakhyáṃ te astv áthemā́ víśvāḥ pṛ́tanā jayāsi ||
When you were striving from the breath of Vṛtra’s oppression, all the gods who are comrades did not abandon you. With the Maruts may your friendship stand, O Indra; then you win all these battles.
वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः । मरुत्भिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥vṛtrasya | tvā | śvasathāt | īṣamāṇāḥ | viśve | devāḥ | ajahuḥ | ye | sakhāyaḥ | marut-bhiḥ | indra | sakhyam | te | astu | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāsi