Sukta 8.96
तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् । इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥
तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् । इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥
tám u stavāma yá imā́ jajā́na víśvā jātā́ny ávarāṇy asmā́t | índreṇa mitráṃ didhiṣema gī́rbhir úpo námo-bhir vṛ́ṣabhaṃ víśema ||
Him we would affirm with praise—he who has brought forth these worlds and all that is born below. With Indra may we establish friendship by our inspired words; with acts of reverence may we enter the Bull-power and abide in it.
तम् । ऊँ॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् । इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥तम् । ऊँ इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् । इन्द्रेण । मित्रम् । दिधिषेम । गीःभिः । उपो इति । नमःभिः । वृषभम् । विशेम ॥tam | oṃ iti | stavāma | yaḥ | imā | jajāna | viśvā | jātāni | avarāṇi | asmāt | indreṇa | mitram | didhiṣema | gīḥ-bhiḥ | upo iti | namaḥ-bhiḥ | vṛṣabham | viśema