Sukta 8.96
स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम । स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥
स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम । स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥
sá vṛtrahéndraś carṣaṇīdhṛ́t taṃ suṣṭutyā́ hávyaṃ huvema | sá prāvitā́ maghávā no ’dhivaktā́ sá vā́jasya śravásyasya dātā́ ||
That Indra, slayer of obstruction, upholder of the peoples, him we call with the well-formed praise as the offering. He is our protector, the bounteous one, our over-speaker (advocate); he is the giver of plenitude of force and of luminous fame.
सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ । सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥सः । वृत्रहा । इन्द्रः । चर्षणिधृत् । तम् । सुस्तुत्या । हव्यम् । हुवेम । सः । प्रअविता । मघवा । नः । अधिवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥saḥ | vṛtra-hā | indraḥ | carṣaṇi-dhṛt | tam | su-stutyā | havyam | huvema | saḥ | pra-avitā | magha-vā | naḥ | adhi-vaktā | saḥ | vājasya | śravasyasya | dātā