Sukta 8.96
स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥
स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव । कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒: सखि॑भ्यः ॥
sa vṛtra-héndra ṛbhukṣā́ḥ sadyó jajñānó havyo babhūva | kṛṇván apā́ṃsi naryā̀ purū́ṇi sómo na pītó havyáḥ sakhíbhyāḥ ||
He—Indra the slayer of the Coverer, the power of skillful formation—born at once into manifestation, becomes worthy to be invoked. He accomplishes many humanly-helpful works; like Soma when drunk, he becomes an offering of delight for the comrades (the inner powers that accompany the seeker).
सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ । कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥सः । वृत्रहा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव । कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिभ्यः ॥saḥ | vṛtra-hā | indraḥ | ṛbhukṣāḥ | sadyaḥ | jajñānaḥ | havyaḥ | babhūva | kṛṇvan | apāṃsi | naryā | purūṇi | somaḥ | na | pītaḥ | havyaḥ | sakhi-bhyaḥ