Sukta 8.96
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ । त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥
त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ । त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥
tváṃ ha tyád apratimā́nam ójo vájreṇa vajrin dhṛṣitó jaghantha | tváṃ śúṣṇasyā́vātiro vádhatrais tváṃ gā́ indra śácyed avindaḥ ||
You, indeed, with the thunderbolt, O wielder of the bolt, struck down that immeasurable might. You drove down Śuṣṇa with the weapons of death; you found the rays of Light (the Cows), O Indra, by your effective power.
त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ । त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥त्वम् । ह । त्यत् । अप्रतिमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ । त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥tvam | ha | tyat | aprati-mānam | ojaḥ | vajreṇa | vajrin | dhṛṣitaḥ | jaghantha | tvam | śuṣṇasya | ava | atiraḥ | vadhatraiḥ | tvam | gāḥ | indra | śacyā | it | avindaḥ