Sukta 8.96
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒: शत्रु॑रिन्द्र । गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥
tváṃ ha tyát saptábhyo jā́yamāno ’śatrúbhyo abhavaḥ śátrur indra | gūḷhé dyā́vāpṛthivī́ ánv avindo vibhúmadbhyo bhúvanebhyo ráṇaṃ dhāḥ ||
You, indeed, born from the Seven, became the enemy of the enemyless (the hostile powers), O Indra. You found out Heaven-and-Earth hidden away, and for the wide-spread worlds you established the battle-field (the decisive arena).
त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ । गू॒ळ्हे । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भ्म॒त्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥त्वम् । ह । त्यत् । सप्तभ्यः । जायमानः । अशत्रुभ्यः । अभवः । शत्रुः । इन्द्र । गूळ्हे । द्यावापृथिवी इति । अनु । अविन्दः । विभ्मत्भ्यः । भुवनेभ्यः । रणम् । धाः ॥tvam | ha | tyat | sapta-bhyaḥ | jāyamānaḥ | aśatru-bhyaḥ | abhavaḥ | śatruḥ | indra | gūḷhe | dyāvāpṛthivī iti | anu | avindaḥ | vibhmat-bhyaḥ | bhuvanebhyaḥ | raṇam | dhāḥ