Sukta 8.96
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः । आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥
अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑: स॒हस्रै॑: । आव॒त्तमिन्द्र॒: शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥
áva drapsó aṃśumátīm atiṣṭhad iyānáḥ kṛṣṇó daśábhiḥ sahásraiḥ | ā́vat tám índraḥ śacyā́ dhámantam ápa snéhitīr nṛmánā adhatta ||
Down came the drop upon the radiant one; moving on, the dark force advanced with ten thousand (powers). Indra by his effective might came to it, to the one that was blowing/forging; and with manly mind he put away the clinging obscurations.
अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ । आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥अव । द्रप्सः । अंशुमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशभिः । सहस्रैः । आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृमनाः । अधत्त ॥ava | drapsaḥ | aṃśu-matīm | atiṣṭhat | iyānaḥ | kṛṣṇaḥ | daśa-bhiḥ | sahasraiḥ | āvat | tam | indraḥ | śacyā | dhamantam | apa | snehitīḥ | nṛ-manāḥ | adhatta