Sukta 8.96
तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास । उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥
तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास । उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥
tád viviḍḍhi yát ta índro jújoṣat stuhí suṣṭutím namasā́ vivāsa | úpa bhūṣa jaritar mā́ ruvaṇyaḥ śrāvayā́ vā́caṃ kuvíd aṅgá védat ||
Discern well that by which Indra is truly pleased: hymn the good praise and serve with the soul’s obeisance. Adorn it, O singer; do not cry out in vain—make the Word heard, so that one indeed may come to know.
तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । न॒म॒सा । वि॒वा॒स॒ । उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्रा॒वया॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सुस्तुतिम् । नमसा । विवास । उप । भूष । जरितः । मा । रुवण्यः । श्रावया । वाचम् । कुवित् । अङ्ग । वेदत् ॥tat | viviḍḍhi | yat | te | indraḥ | jujoṣat | stuhi | su-stutim | namasā | vivāsa | upa | bhūṣa | jaritaḥ | mā | ruvaṇyaḥ | śrāvayā | vācam | kuvit | aṅga | vedat