Sukta 8.96
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः । नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥
द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑: । नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥
drapsám apaśyaṃ víṣuṇe cárantam upahvaré nadyò aṃśumátyāḥ | nábho na kṛṣṇám avatasthivā́ṃsam iṣyā́mi vo vṛṣaṇo yúdhyatājau ||
I saw the drop moving apart in its own courses, in the winding recess where the ray-filled rivers flow. It stood there like a black cloud-mass; I urge you on, O mighty ones, to fight in the battle.
द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ । नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपह्वरे । नद्यः । अंशुमत्याः । नभः । न । कृष्णम् । अवतस्थिवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥drapsam | apaśyam | viṣuṇe | carantam | upa-hvare | nadyaḥ | aṃśu-matyāḥ | nabhaḥ | na | kṛṣṇam | avatasthi-vāṃsam | iṣyāmi | vaḥ | vṛṣaṇaḥ | yudhyata | ājau