Sukta 8.96
उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् । नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥
उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् । नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥
ukthávāhase vibhvé manīṣā́m druṇā́ na pārám īraya nadī́nām | ní spṛśa dhiyā́ tanví śrutásya júṣṭatarasya kuvíd aṅgá védat ||
O bearer of the inspired hymn, O all-pervading Power, set in motion our illumined understanding, as one drives a wooden vessel toward the farther shore of the rivers. Touch down into us by the thought-power, into the subtle body of what is truly heard; may one indeed come to know that which is more and more delightful to the inner hearing.
उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् । नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥उक्थवाहसे । विभ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् । नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टतरस्य । कुवित् । अङ्ग । वेदत् ॥uktha-vāhase | vi-bhve | manīṣām | druṇā | na | pāram | īraya | nadīnām | ni | spṛśa | dhiyā | tanvi | śrutasya | juṣṭa-tarasya | kuvit | aṅga | vedat