Sukta 8.95
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥
एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ । शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥
éto nv índraṃ stávāma śuddháṃ śuddhéna sā́mnā | śuddháir uktháir vāvṛdhvā́ṃsaṃ śuddhá āśī́r-vān mamattu ||
Come then, let us praise Indra the pure with a pure chant; with pure utterances strengthening him—may the pure, boon-bearing power take delight within us, filling the being with its blessing.
एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । शु॒द्धम् । शु॒द्धेन॑ । साम्ना॑ । शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस॑म् । शु॒द्धः । आ॒शीःऽवा॑न् । म॒म॒त्तु॒ ॥एतो इति । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना । शुद्धैः । उक्थैः । ववृध्वांसम् । शुद्धः । आशीःवान् । ममत्तु ॥eto iti | nu | indram | stavāma | śuddham | śuddhena | sāmnā | śuddhaiḥ | ukthaiḥ | vavṛdhvāṃsam | śuddhaḥ | āśīḥ-vān | mamattu