Sukta 8.95
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥
तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः । पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥
tám u ṣṭavāma yáṃ gíra índram ukthā́ni vāvṛdhúḥ | purū́ṇy asyá paúṃsyā sisā́santo vanāmahe ||
Him we would praise—Indra whom words and solemn utterances have increased. Seeking to win his many man-powers, we strive to gain them as our possession: the forces of victorious being.
तम् । ऊँ॒ इति॑ । स्त॒वा॒म॒ । यम् । गिरः॑ । इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः । पु॒रूणि॑ । अ॒स्य॒ । पौंस्या॑ । सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥तम् । ऊँ इति । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । ववृधुः । पुरूणि । अस्य । पौंस्या । सिसासन्तः । वनामहे ॥tam | oṃ iti | stavāma | yam | giraḥ | indram | ukthāni | vavṛdhuḥ | purūṇi | asya | paiṃsyā | sisāsantaḥ | vanāmahe