Sukta 8.95
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥
श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ । सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥
śrudhī́ hávaṃ tiraśc(y)ā́ índra yás tvā sapáryati | su-vī́ryasya gó-mato rāyás pūrdhi mahā́ṃ ási ||
Hear the call, O Indra, even from the sideward paths—of him who serves you. Fill him with the wealth that is rich in luminous herds, with the abundance of heroic power; for you are the Vast.
श्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ । सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥श्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति । सुवीर्यस्य । गोमतः । रायः । पूर्धि । महान् । असि ॥śrudhi | havam | tiraścyāḥ | indra | yaḥ | tvā | saparyati | su-vīryasya | go--mataḥ | rāyaḥ | pūrdhi | mahān | asi