Sukta 8.95
पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् । त्वं हि शश्वतीनां पती राजा विशामसि ॥
पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् । त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥
píbā sómaṃ mádāya kám índra śyenā́bhṛtaṃ sutám | tváṃ hí śáśvatīnām pátī rājā́ viśā́m ási ||
Drink the Soma for the ecstasy, O Indra—this pressed delight brought by the swift falcon. For you are indeed the enduring lord, the king of the peoples: the sovereign light that rules the many powers in us.
पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् । त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥पिब । सोमम् । मदाय । कम् । इन्द्र । श्येनआभृतम् । सुतम् । त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि ॥piba | somam | madāya | kam | indra | śyena-ābhṛtam | sutam | tvam | hi | śaśvatīnām | patiḥ | rājā | viśām | asi