Sukta 8.95
आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥
आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः । पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥
ā́ tvā śukrā́ acucyavuḥ sutā́sa indra girvaṇaḥ | píbā tv asyā́ndhasa índra víśvāsu te hitám ||
To you the bright pressings have flowed, O Indra, lover of the chant. Drink then of this Soma-essence, O Indra, that which is set for you in all our movements—so the luminous force may enter and govern the whole being.
आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः । पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम् ॥ā | tvā | śukrāḥ | acucyavuḥ | sutāsaḥ | indra | girvaṇaḥ | piba | tu | asya | andhasaḥ | indra | viśvāsu | te | hitam