Sukta 8.92
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥
त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् । आ च्या॑वयस्यू॒तये॑ ॥
tyámu vaḥ satrā-sā́haṃ víśvāsu gī́rṣv ā́yatam | ā́ cyā́vayasy ū́taye ||
That ever-victorious Power we call to you—let him come in all our words of inspired utterance; draw him near for our protection and inner help.
त्यम् । ऊँ॒ इति॑ । वः॒ । स॒त्रा॒ऽसह॑म् । विश्वा॑सु । गी॒र्षु । आऽय॑तम् । आ । च्य॒व॒य॒सि॒ । ऊ॒तये॑ ॥त्यम् । ऊँ इति । वः । सत्रासहम् । विश्वासु । गीर्षु । आयतम् । आ । च्यवयसि । ऊतये ॥tyam | oṃ iti | vaḥ | satrāsaham | viśvāsu | gīrṣu | āyatam | ā | cyavayasi | ūtaye