Sukta 8.92
तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये । तदिद्ध्यस्य वर्धनम् ॥
तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥
tám u abhí prá arcata índraṃ sómasya pītáye | tád íd dhy asya várdhanam ||
Him—Indra—chant forth and praise, for the drinking of Soma; for that indeed is his increase: by delight he grows in force within us.
तम् । ऊँ॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥तम् । ऊँ इति । अभि । प्र । अर्चत । इन्द्रम् । सोमस्य । पीतये । तत् । इत् । हि । अस्य । वर्धनम् ॥tam | oṃ iti | abhi | pra | arcata | indram | somasya | pītaye | tat | it | hi | asya | vardhanam