Sukta 8.92
अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । इन्दोरिन्द्रो यवाशिरः ॥
अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिण॑: । इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥
ápādu śiprī́ ándhasaḥ su-dákṣasya pra-hóṣiṇaḥ | índor índro yávā-śiraḥ ||
Let Indra, the strong-jawed, drink up the Soma-essence—well-skilled and richly pressing—Indra of the Indu, whose head is mixed with the barley: may the delight be taken into his force for our victory.
अपा॑त् । ऊँ॒ इति॑ । शि॒प्री । अन्ध॑सः । सु॒ऽदक्ष॑स्य । प्र॒ऽहो॒षिणः॑ । इन्दोः॑ । इन्द्रः॑ । यव॑ऽआशिरः ॥अपात् । ऊँ इति । शिप्री । अन्धसः । सुदक्षस्य । प्रहोषिणः । इन्दोः । इन्द्रः । यवआशिरः ॥apāt | oṃ | iti | śiprī | andhasaḥ | su-dakṣasya | pra-hoṣiṇaḥ | indoḥ | indraḥ | yava-āśiraḥ