Sukta 8.92
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे । य इन्द्र जठरेषु ते ॥
वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे । य इ॑न्द्र ज॒ठरे॑षु ते ॥
vivyáktha mahinā́ vṛṣan bhakṣáṃ sómasya jāgṛve | yá índra jaṭháreṣu te ||
By your greatness you have made manifest, O Bull, the nourishment of Soma for the wakeful one—this that is in your bellies, O Indra.
वि॒व्यक्थ॑ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम॑स्य । जा॒गृ॒वे॒ । यः । इ॒न्द्र॒ । ज॒ठरे॑षु । ते॒ ॥विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे । यः । इन्द्र । जठरेषु । ते ॥vivyaktha | mahinā | vṛṣan | bhakṣam | somasya | jāgṛve | yaḥ | indra | jaṭhareṣu | te